(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.138. अध्यायः 138
Mahabharata - Adi Parva - Chapter Topics
पुनर्भीमाय विषमिश्रभक्ष्यदानम्॥ 1 ॥
शूलकीलितायां शमाणकोट्यां पुनर्भीमसेनस्य पातनम्॥ 2 ॥
पाताललोकं प्राप्तस्य भीमस्य वासुकिदत्तरसपानम्॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text

`वैशम्पायन उवाच। 1-138-0x(817)(6184)
ततस्ते मन्त्रयामासुर्दुर्योधनपुरोगमाः।
प्राणवान्विक्रमी चापि शौर्ये च महति स्थितः॥ 1-138-1(6185)
स्पर्धते चापि सततमस्मानेव वृकोदरः।
तं तु सुप्तं पुरोद्याने जले शूले क्षिपामहे॥ 1-138-2(6186)
ततो जलविहारार्थं कारयामास भारत।
प्रमाणकोट्यामुद्देशे स्थलं किंचिदुपेत्य ह॥' 1-138-3(6187)
भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यमथापि च।
उपपादितं नरैस्तत्र कुशलैः सूदकर्मणि॥ 1-138-4(6188)
न्यवेदयंस्तत्पुरुषा धार्तराष्ट्राय वै तदा।
ततो दुर्योधनस्तत्र पाण्डवानाह दुर्मतिः॥ 1-138-5(6189)
गङ्गां चैवानुयास्याम उद्यानवनशोभिताम्।
सहिता भ्रातरः सर्वे जलक्रीडामवाप्नुमः॥ 1-138-6(6190)
एवमस्त्विति तं चापि प्रत्युवाच युधिष्ठिरः।
ते रथैर्नगराकारैर्देशजैश्च गजोत्तमैः॥ 1-138-7(6191)
निर्ययुर्नगराच्छूराः कौरवाः पाण्डवैः सह।
उद्यानवनमासाद्य विसृज्य च महाजनम्॥ 1-138-8(6192)
विशन्ति स्म तदा वीराः सिंहा इव गिरेर्गुहाम्।
उद्यानमभिपश्यन्तो भ्रातरः सर्व एव ते॥ 1-138-9(6193)
उपस्थानगृहैः शुभ्रैर्वलभीभिश्च शोभितम्।
गवाक्षकैस्तथा जालैर्यन्त्रैः सांचारिकैरपि॥ 1-138-10(6194)
संमार्जितं सौधकारैश्चित्रकारैश्च चित्रितम्।
दीर्घिकाभिश्च पूर्णाभिस्तथा पुष्करिणीषु च॥ 1-138-11(6195)
जलं तच्छुशुभे च्छन्नं फुल्लैर्जलरुहैस्तथा।
उपच्छन्ना वसुमती तथा पुष्पैर्यथर्तुकैः॥ 1-138-12(6196)
तत्रोपविष्टास्ते सर्वे पाण्डवाः कौरवाश्च ह।
उपच्छन्नान्बहून्कामांस्ते भुञ्जन्ति ततस्ततः॥ 1-138-13(6197)
अथोद्यानवरे तस्मिंस्तथा क्रीडागताश्चते।
परस्परस्य वक्त्रेषु ददुर्भक्ष्यांस्ततस्ततः॥ 1-138-14(6198)
ततो दुर्योधनः पापस्तद्भक्ष्ये कालकूटकम्।
विषं प्रक्षेपयामास भीमसेनजिघांसया॥ 1-138-15(6199)
स्वयमुत्थाय चैवाथ हृदयेन क्षुरोपमः।
स वाचाऽमृतकल्पश्च भ्रातृवच्च सुहृद्यथा॥ 1-138-16(6200)
स्वयं प्रक्षिपते भक्ष्यं बहु भीमस्य पाकृत्।
प्रभक्षितं च भीमेन तं वै दोषमजानता॥ 1-138-17(6201)
ततो दुर्योधनस्तत्र हृदयेन हसन्निव।
कृतकृत्यमीवात्मानं मन्यते पुरुषाधमः॥ 1-138-18(6202)
ततस्ते सहिताः सर्वे जलक्रीडामकुर्वत।
पाण्डवा धार्तराष्ट्राश्च तदा मुदितमानसाः॥ 1-138-19(6203)
विहारावसथेष्वेव वीरा वासमरोचयन्।
भीमस्तु बलवान्भुक्त्वा व्यायामाभ्यधिकं जले॥ 1-138-20(6204)
वाहयित्वा कुमारांस्ताञ्जलक्रीडागतांस्तदा।
प्रमाणकोट्यां वासार्थी सुष्वापावाप्य तत्स्थलम्॥ 1-138-21(6205)
शीतं वातं समासाद्य श्रान्तो मदविमोहितः।
विषेण च परीताङ्गो निश्चेष्टः पाण्डुनन्दनः॥ 1-138-22(6206)
ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः स्वयम्।
`शूलान्यप्सु निखायाशु प्रादेशाभ्यन्तराणि च॥ 1-138-23(6207)
लतापाशैर्दृढं बद्धं स्थलाज्जलमपातयत्।
सशेषत्वान्न संप्राप्तो जले शूलिनि पाण्डवः॥ 1-138-24(6208)
पपात यत्र तत्रास्य शूलं नासीद्यदृच्छया।'
स निःसंज्ञो जलस्यान्तमवाग्वै पाण्डवोऽविशत्।
आक्रामन्नागभवने तदा नागकुमारकान्॥ 1-138-25(6209)
ततः समेत्य बहुभिस्तदा नागैर्महाविषैः।
अदश्यत भृशं भीमो महादंष्ट्रैर्विपोल्बणैः॥ 1-138-26(6210)
ततोऽस्य दश्यमानस्य तद्विषं कालकूटकम्।
हतं सर्पविषेणैव स्थावरं जङ्गमेन तु॥ 1-138-27(6211)
दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः।
त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः॥ 1-138-28(6212)
ततः प्रबुद्धः कौन्तेयः सर्वं संछिद्य बन्धनम्।
पोथयामास तान्सर्पान्केचिद्भीताः प्रदुद्रुवुः॥ 1-138-29(6213)
हतावशेषा भीमेन सर्वे वासुकिमभ्ययुः।
ऊचुश्च सर्पराजानं वासुकिं वासवोपमम्॥ 1-138-30(6214)
अयं नरो वै नागरेन्द्र ह्यप्सु बद्ध्वा प्रवेशितः।
यथा च नो मतिर्व्रीर विषपीतो भविष्यति॥ 1-138-31(6215)
निश्चेष्टोऽस्माननुप्राप्तः स च दष्टोऽन्वबुध्यत।
ससंज्ञश्चापि संवृत्तश्छित्त्वा बन्धनमाशु नः॥ 1-138-32(6216)
पोथयन्तं महाबाहुं त्वं वै तं ज्ञातुमर्हसि।
ततो वासुकिरभ्येत्य नागैरनुगतस्तदा॥ 1-138-33(6217)
पश्यति स्म महाबाहुं भीमं भीमपराक्रमम्।
आर्यकेण च दृष्टः स पृथाया आर्यकेम च॥ 1-138-34(6218)
तदा दौहित्रदौहित्रः परिष्वक्तः सुपीडितम्।
सुप्रीतश्चाभवत्तस्य वासुकिः स महायशाः॥ 1-138-35(6219)
अब्रवीत्तं च नागेन्द्रः किमस्य क्रियतां प्रियम्।
धनौघो रत्ननिचयो वसु चास्य प्रदीयताम्॥ 1-138-36(6220)
एवमुक्तस्तदा नागो वासुकिं प्रत्यभाषत।
यदि नागेन्द्र तुष्टोऽसि किमस्य धनसंचयैः॥ 1-138-37(6221)
रसं पिबेत्कुमारोऽयं त्वयि प्रीते महाबलः।
बलं नागसहस्रस्य यस्मिन्कुण्डे प्रतिष्ठितम्॥ 1-138-38(6222)
यावत्पिबति बालोऽयं तावदस्मै प्रदीयताम्।
एवमस्त्विति तं नागं वासुकिः प्रत्यभाषत॥ 1-138-39(6223)
ततो भीमस्तदा नागैः कृतस्वस्त्ययनः शुचिः।
प्राङ्मुखश्चोपविष्टश्च रसं पिबति पाण्डवः॥ 1-138-40(6224)
एकोच्छ्वासात्ततः कुण्डं पिबति स्म महाबलः।
एवमष्टौ स कुण्डानि ह्यपिबत्पाण्डुनन्दनः॥ 1-138-41(6225)
ततस्तु शयने दिव्ये नागदत्ते महाभुजः।
अशेत भीमसेनस्तु यथासुखमरिंदमः॥ ॥ 1-138-42(6226)

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि अष्टत्रिंशदधिकशततमोऽध्यायः॥ 138 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-138-10 उपस्थानगृहैः यत्र राजानं कार्यिणः शूराश्चोपतिष्ठन्ति तैर्गृहैः। वलभीभिरुभयतो नमत्पक्षाभिः स्तम्भशालाभिः। यन्त्रैर्जलयन्त्रैः शतधारादिभिः। यतो युगपच्छतं धारा उच्छलन्त्यो नीहारीभूय भवनोदरं व्याप्नुवन्ति। सांचारिकैः संचारयोग्यैः॥ 1-138-11 दीर्घिकाभिः कुल्याभिः॥ 1-138-13 उपच्छन्नानुपागतान्॥ 1-138-31 विषपीतः पीतविषः॥ 1-138-34 आर्यकेण नागराजेन। पृथाया आयकेण मातामहेन। कुन्तिभोजद्वारायं संबन्ध इति गम्यते॥ 1-138-35 दौहित्रदौहित्र इति त्वार्यकनागस्य दौहित्रः शूरस्तद्दौहित्रो भीम इत्यविरुद्धमेतत्। अन्ये तु शूरमातामह एवोपचारात कुन्तीमातामहोऽपीत्याहुः॥ 1-138-38 रसं साधितपारदम्॥ अष्टत्रिंशदधिकशततमोऽध्यायः॥ 138 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.